Feb 14 2024
सरस्वती माया दृष्टा वीणपुस्तकधारिणी
हंरवाहनसंयुक्ता विद्यादानं करोतुमे
प्रथमं भारती नाम द्घितीयञ्च सरस्वती
तृतीयं शारदा देवी चतुर्थ हंसवाहिनी
पञ्चमं तुजगन्माता षष्ठं वागीश्ररी तथा
सप्तमं चैव कौमारी अष्टमं वरदायिनी
नवमं बुद्घिदात्री च दशमं ब्रह्माचारिणी
एकादशं चन्द्रघण्टा द्धादशं भुवनेश्ररी
द्धादशै तानि नामनि त्रिसन्ध्यं य पठेन्नरः
जिव्हाग्रे वसते तस्य ब्रह्मारुपा सरस्वती ।।
#nirikafamily